Top Songs By Saindhavi
Credits
AUSFÜHRENDE KÜNSTLER:INNEN
Saindhavi
Künstler:in
Abirami Audio Recording Private Limited
Künstler:in
KOMPOSITION UND LIEDTEXT
Ruban
Komponist:in
Lyrics
॥ श्री कामाक्षीस्तोत्रम् ॥
कामारिकामां कमलासनस्थां काम्यप्रदां कङ्कणचूडहस्तां ।
काञ्चीनिवासां कनकप्रभासां कामाक्षिदेवीं कलयामि चित्ते ॥ 1॥
काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 2॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 3॥
कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादम्बमालाश्रियं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 4॥
गन्धर्वामरसिद्धचारणवधूध्येयां पताकाञ्चितां गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीरस्मितविभ्रमाङ्कितमुखीं गङ्गाधरालिङ्गितां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 5॥
विष्णुब्रह्ममुखामरेन्द्रविलसत्कोटीरपीठस्थलां लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।
वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरावृतां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 6॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने दिव्यां दीपितहेमकान्तिनिवहां वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदार्पितां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 7॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां आकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।
योगीन्द्रैरपि योगिनीशतगणैराराधितामम्बिकां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 8॥
ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं ऐं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 9॥
सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं मायाविश्वविमोहिनीं मधुमतीं ध्यायेत् शुभां ब्राह्मणीम् ।
ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ 10॥
इति श्री कामाक्षीस्तोत्रं सम्पूर्णम् ।
Written by: Ruban